☰
Search
Mic
En
Android Play StoreIOS App Store
Setting
Clock

Madhura Ashtakam | Madhurashtakam - English Lyrics and Video Song

DeepakDeepak

Madhurashtakam

Madhurashtakam is one of the most famous Ashtakam of Lord Krishna. This famous Ashtakam is recited on most occasions related to Lord Krishna including Krishna Janmashtami. It is so popular that it is recited regularly in homes and at various Krishna temples.

X

॥ मधुराष्टकम् ॥

अधरं मधुरं वदनं मधुरंनयनं मधुरं हसितं मधुरम्।

हृदयं मधुरं गमनं मधुरंमधुराधिपतेरखिलं मधुरम्॥1॥

वचनं मधुरं चरितं मधुरंवसनं मधुरं वलितं मधुरम्।

चलितं मधुरं भ्रमितं मधुरंमधुराधिपतेरखिलं मधुरम्॥2॥

वेणुर्मधुरो रेणुर्मधुरःपाणिर्मधुरः पादौ मधुरौ।

नृत्यं मधुरं सख्यं मधुरंमधुराधिपतेरखिलं मधुरम्॥3॥

गीतं मधुरं पीतं मधुरंभुक्तं मधुरं सुप्तं मधुरम्।

रूपं मधुरं तिलकं मधुरंमधुराधिपतेरखिलं मधुरम्॥4॥

करणं मधुरं तरणं मधुरंहरणं मधुरं रमणं मधुरम्।

वमितं मधुरं शमितं मधुरंमधुराधिपतेरखिलं मधुरम्॥5॥

गुञ्जा मधुरा माला मधुरायमुना मधुरा वीची मधुरा।

सलिलं मधुरं कमलं मधुरंमधुराधिपतेरखिलं मधुरम्॥6॥

गोपी मधुरा लीला मधुरायुक्तं मधुरं मुक्तं मधुरम्।

दृष्टं मधुरं शिष्टं मधुरंमधुराधिपतेरखिलं मधुरम्॥7॥

गोपा मधुरा गावो मधुरायष्टिर्मधुरा सृष्टिर्मधुरा।

दलितं मधुरं फलितं मधुरंमधुराधिपतेरखिलं मधुरम्॥8॥

॥ इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् ॥
Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation