☰
Search
Mic
हि
Android Play StoreIOS App Store
Setting
Clock

श्री हरि शरणाष्टकम् - संस्कृत गीतिकाव्य एवं वीडियो गीत

DeepakDeepak

श्री हरि शरणाष्टकम्

श्री हरि शरणाष्टकम् एक भक्ति गीत है जो भगवान विष्णु को समर्पित है।

॥ श्री हरि शरणाष्टकम् ॥

ध्येयं वदन्ति शिवमेव हि केचिदन्येशक्तिं गणेशमपरे तु दिवाकरं वै।

रूपैस्तु तैरपि विभासि यतस्त्वमेवतस्मात्त्वमेव शरणं मम दीनबन्धो॥1॥

नो सोदरो न जनको जननी न जायानैवात्मजो न च कुलं विपुलं बलं वा।

संदृष्यते न किल कोऽपि सहायको मेतस्मात्त्वमेव शरणं मम दीनबन्धो॥2॥

नोपासिता मदमपास्य मया महान्तस्तीर्थानिचास्तिकधिया न हि सेवितानि।

देवार्चनं च विधिवन्न कृतं कदापितस्मात्त्वमेव शरणं मम दीनबन्धो॥3॥

दुर्वासना मम सदा परिकर्षयन्तिचित्तं शरीरमपि रोगगणा दहन्ति।

सञ्जीवनं च परहस्तगतं सदैवतस्मात्त्वमेव शरणं मम दीनबन्धो॥4॥

पूर्वं कृतानि दुरितानि मया तु यानिस्मृत्वाखिलानि ह्रदयं परिकम्पते मे।

ख्याता च ते पतितपावनता तु यस्मात्तस्मात्त्वमेव शरणं मम दीनबन्धो॥5॥

दुःखं जराजननजं विविधाश्च रोगा:काकश्वसूकरजनिर्निरय च पात:।

त्वद्विस्मॄतेः फलमिदं विततं हि लोकेतस्मात्त्वमेव शरणं मम दीनबन्धो॥6॥

नीचोऽपि पापवलितोऽपि विनिन्दितोऽपिब्रूयात्तवाहमिति यस्तु किलैकवारम्।

तं यच्छसीश निजलोकमिति व्रतं तेतस्मात्त्वमेव शरणं मम दीनबन्धो॥7॥

वेदेषु धर्मवचनेषु तथागमेषुरामायणेऽपि च पुराणकदम्बके वा।

सर्वत्र सर्वविधिना गदितस्त्वमेवतस्मात्त्वमेव शरणं मम दीनबन्धो॥8॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥
Kalash
कॉपीराइट नोटिस
PanditJi Logo
सभी छवियाँ और डेटा - कॉपीराइट
Ⓒ www.drikpanchang.com
प्राइवेसी पॉलिसी
द्रिक पञ्चाङ्ग और पण्डितजी लोगो drikpanchang.com के पञ्जीकृत ट्रेडमार्क हैं।
Android Play StoreIOS App Store
Drikpanchang Donation